देहि केशव देहि माधव

।। श्रीराधाकृष्ण चरणकमलेभ्यो नम: ।।



देहि केशव देहि माधव
निर्मलचरित ! आशिषम् ॥

त्वत्पदविरचितसत्पथगमनं
चिरकाङ्क्षितमभिलाषम् ॥

मधुरा वाणी सदयं हृदयं
वद मे कथमुपलब्धम् ॥

सुदृढा निष्ठा महती वृत्तिः
वद मे कथमुपलब्धा ॥

हिमवान् फाले जलधिः पादे
वद वै कथमभिदृष्टः ॥

वनमालाङ्गं मुनिभिर्दृष्टं
वद मे कथमभिदृष्टम् ॥

हिन्दुसमाजं शिथिलं दृष्ट्वा
व्यथितं तावकहृदयम् ॥

मामकचित्ते तादृशभावः
भाति कदा गाढं गाढम् ॥

पावनसंस्कृतिगङ्गा प्रवहति
हिन्दोरिहाविरामम् ॥

कण इव तस्मिन् मामकविलयः
वद मे भवति कदा ? ॥

Comments

Popular Posts

How to Type Colorful Mail in Gmail App: A Simple and Fun Trick

विश्वमंगल प्रार्थना व आरतियां

Shri Krishna: The Supreme Godhead and His Eternal Teachings